वसुधानन्तौ A. (१३ वर्षीयौ / अष्टमः वर्गः)
अस्माकं सनातनसंस्कृत्यां बहून् उत्सवान् वयम् आचरामः। कांश्चित् उत्सवान् प्रत्येकं वर्षे आचरामः परन्तु महाकुम्भमेला इति उत्सवः चतुश्चत्वारिंशदधिकशतवेर्षेभ्यः परम् एव भवति । अस्मिन् क्रोधिसम्वत्सरे महाकुम्भमेलासम्मेलनं भारतदेशे उत्तरप्रदेशराज्ये प्रयागराजनगरे अधुना प्रवर्तते । पौषपूर्णिमातः ९३ January २०२५ दिनाङ्कात् महाशिवरात्रिपर्यन्तं २६ February २०२५ दिनाङ्कं यावत् इयं धर्ममेला प्रचलति ।
कुम्भमेला त्रिविधा । पूर्णकुम्भमेला द्वादशवर्षेषु एकवारं भवति। तत्परं पुनः द्वादशी पूर्णकुम्भमेला महाकुम्भ्मेला इति उच्यते । अतः एव द्वयोः महाकुम्भमेलयोः मध्ये चतुश्चत्वारिंशदधिकशतवर्षाणाम् अन्तरं भवति । पूर्णकुम्भमेलां महाकुम्भमेलां च प्रयागराजनगरे आचरामः । अर्धकुम्भमेला षट्सु वर्षेषु एकवारं भवति यां प्रयागराजे हरिद्वरे च अपि आचरामः । सर्वासु कुम्भमेलासु सन्न्यासिभिः भक्तैः सन्तैः च पुण्यस्नानं दानं देवनमनं च क्रियते । साधारणतया कुम्भमेलासमये नाशिकनगरे गोदावर्यां उज्जयिनीनगरे शिप्रानद्यां च अपि भक्ताः पुण्यस्नानं कुर्वन्ति ।
भारतदेशे अनेकाः पुण्यनद्यः सन्ति। तासु प्रमुखे गङ्गा यमुना च ये देवनद्यौ इति कीर्तिते । गङ्गोत्रीतः गङ्गा वहति । हिमालयपर्वतस्थात् यमुनोत्रीस्थानात् यमुनानदी वहति । उत्तरभारते बहुदूरम् ऊढ्वा प्रयागराजनगरे ते मिलतः । तत्र भूम्याः अधः वहमाना प्राचीना पुण्यनदी सरस्वती अपि गङ्गायमुनाभ्यां सह मिलति । तत्स्थानं त्रिवेणीसङ्गमनाम्ना प्रसिद्धम् । तत्र एव सर्वे भक्ताः कुम्भमेलायां पुण्यस्नानं कुर्वन्ति यत् पापविमोचकम् अतिपुण्यकरं च इति शास्त्रेषु पुराणेषु च उक्तम् ।
Originally published in 24021 Jan छात्रवाणी ।