सुनिलः चेल्लप्पन् (अनुवादः)
कस्मिंश्चित् ग्रामे मोहदत्तः नाम लुब्धः धनिकः आसीत् । सः स्वीयं धनम् अदानेन अव्ययेन च रक्षति स्म । कदाचित् एकशतं सुवर्णनाणकानि लघुस्यूते स्थापयित्वा कुत्रापि गतवान् आसीत् । मार्गे स्यूतः कथञ्चित् नष्टः जातः । स्यूतस्य अन्वेषणे बहुप्रयत्नं कृतवान् । मोहदत्तः स्यूतं न अलभत ।
सः महाराजस्य सभायां प्रवृत्तं निवेद्य स्यूतान्वेषणे साहाय्यं प्रार्थितवान् । कोऽपि धनस्यूतं अन्विष्य तत् मह्यं ददाति चेत् तस्मै दश सुवर्णनाणकानि पारितोषिकरूपेण दास्यामि इत्यपि मोहदत्तेन सूचितम् ।
ततः समीपस्थः कश्चन कृषकः एतं स्यूतं प्राप्तवान् । सः धनिकगृहम् आगत्य धनस्यूतं समर्पितवान् । सन्तुष्टः मोहदत्तः स्यूते विद्यमानानि नाणकानि गणयित्वा कृतज्ञताम् उक्तवान् । पारितोषिकं प्रतीक्षमाणः कृषकः तं विषयं मोहदत्तेन स्मारयति स्म । कृषकस्य आश्चर्यं जनयन् मोहदत्तेन एवं सूचितम् स्यूते दशाधिकैकशतं सुवर्णनाणकानि आसन् । ततः भवान् दश सुवर्णनाणकानि स्वीकृतवान् । तदेव पर्याप्तम् इति।
अपमानितः कृषकः महाराजस्य पुरतः प्रश्नम् उपस्थापितवान् । राजसभायां धनिकस्य अपि वचनानि श्रुत्वा कृषकस्य वाक्येषु एव सत्यम् इति महाराजः अवगतवान् । महारजः धनिकम् अपृच्छत् ।
महाराजः – भवतः स्यूते कति सुवर्णनाणकानि आसन् ।
मोहदत्तः – दशाधिकैकशतम् ।
कृषकेण आनीते स्यूते कति आसन् । एकशतम् । सः स्यूतः भवतः न । तानि शतम् अपि नाणकानि प्रत्यर्पयतु भवान् । स्वस्य स्यूतस्य पुनः अन्वेषणं करोतु ।
मम दुराशायाः फलरूपेण प्राप्तम् अपि धनं नष्टम् इति मोहदत्तः व्यलपत् ।
Originally published in 24021 Jan छात्रवाणी ।