चित्रणं कञ्चन विषयं सहस्रेण पदैः वर्णितम् अपि स्पष्टतरं प्रकटयति इति काचित् प्रसिद्धा उक्तिः । कदाचित् कानिचन वाक्यानि चित्रैः अवर्णनीयानि भवेयुः । तदवसरे तस्य वाक्यस्य अवगमनाय शिष्यः स्वकल्पनाम् आश्रयेत् । अध्यापकः वा। तादृशानि कानिचन वाक्यानि पश्याम किम्।
कृपणाः फलम् अजिघ्रन् । (प्र.४.१.१०) – एतद् वाक्यं कृपणानां कञ्चन स्वभावं प्रकटयति । एतस्य वाक्यस्य पाठनसमये श्रुतपूर्वं किञ्चन कथनं पुनः पुनः मनसि स्फुरति । तद् एवं भवति । कश्चन बालकः विद्यालयं गच्छति । प्रतिवारं लोकयानाय पञ्चत्रिंशत् नाणकानि देयानि । कस्मिंश्चित् दिने विद्यालयात् प्रत्यागतः पुत्रः पितरं प्रीणयितुकामः सोत्साहं वदति । भोः पितः। प्रणमामि । अद्य अहं पञ्चत्रिंशन्नाणकानि व्ययात् रक्षितवान् । कथम् इति पृष्टे सति लोकयानस्य पृष्ठतः धावन् गृहम् आगतोऽस्मि । अत एव इति ।
आलिङ्गनं प्रतीक्षमाणः बालकः तत्स्थाने सम्यक् ताडनं प्राप्नोति । पिता ताडयन् वदति । रे मूर्ख! लोकयानस्य स्थाने यदि भाटकयानस्य पृष्ठतः धावन् आगमिष्यत् तर्हि शतगुणितं पञ्चत्रिंशत् रूप्यकाणि रक्षितानि अभविष्यन् खलु । इति । एतेन कृपणानां स्वभावः स्पष्टतया वर्णितः अस्मान् साक्षात् सुगन्धयुक्तं कञ्चन फलानाम् आपणं नयेत् । मनसि च फलं जिघ्रन्तं कञ्चन कृपणं पश्येम ।
पलायमानं मित्रं शीघ्रं धावति । (शि.७.१.८) – मित्रं किमर्थं पलायेत। तदपि शीघ्रं धावत् । हरिणः पलायेत । भीरुः पलायेत । बालकाः अपि पलायेरन् । मित्रम्? कल्पनाशक्त्या चोदिता वर्णनम् एवं करोमि । किञ्चन मित्रं भारतं गच्छति । प्रत्यागमनसमये कथकस्य मात्रे किमपि ततः आनेष्यामि इति प्रतिज्ञां दत्त्वा अगच्छत् । इदानीं प्रत्यागतं मित्रं तत् वस्तु न आनयत् । अतः मातरं दृष्ट्वा ततः वेगेन पलायते । भवन्तः समाधानं कथं कुर्युः ।
सकलस्य प्रपञ्चस्य सृष्टिकर्ता परमात्मा । (परि.२.१.१३) – अन्तरिक्षे वर्तमानस्य परमात्मनः अंशः ब्रह्मा हस्ते कमण्डलुं गृह्णन् आकाशे मन्दं प्लवमानः ध्याने नक्षत्रग्रहताराणां मध्ये उपविष्टः नित्यं जगत् जगतः अंशान् च सृजन् दृश्यते ।
कीटः सस्यं बाधते । (प्र.३.१.८) बाध्-धातुः आत्मनेपदी एव इति स्मारयितुं कालिदासेन सम्बद्धं कञ्चन प्रसङ्गम् एवं वर्णयामि । भोजराजस्य सभायां कवीनां सम्माननं सगौरवं क्रियते स्म । बाह्यः कविः कश्चन सम्माननं प्राप्तुम् इच्छन् धारानगरम् आगच्छति । वार्तां श्रुत्चा राजा भोजः स्वागतीकरणगोष्ठीं नगरद्वारपर्यन्तं प्रेषयति । एतद् आकर्ण्य कालिदासः भारवाहवेषं धरन् तां गोष्ठीं प्रविशति । आगन्तुकं कविं शिबिकायां संस्थाप्य प्रासादं प्रति सर्वे रागतालवाद्यसहितं गच्छन्ति । मध्ये कदाचित् सः बाह्यकविः शिबिकायाः बहिः शिरः धरन् भारवाहवेषं धृतवन्तं कालिदासं पृच्छति भारः बाधति वा इति । एतत् श्रुत्वा सः वेषधारी कालिदासः वदति भारः न बाधते । बाधति बाधते इति । एतत् श्रुत्वा स्वदोषम् अवगत्य लज्जितः बाह्यकविः कारणम् अनुक्त्वा ततः पलायते ।
चित्रयुक्तपुस्तकानां पठनेन अन्येषां कल्पनां वयं वीक्षामहे । दूरस्थशिक्षणस्य अचित्रितपुस्तकानां पठने पाठने च मनोरथस्य गतिः मनोरञ्जनं जनयति । चोदितानां छात्राणाम् अनुभवः अपि तथा स्यात् इति अहं भावयामि।
(पद्मावतीरामनाथपुत्री विद्या)
इति शम्।
छात्रवाणी संस्कृतभारतीछात्राणां वार्तापत्रिका | माघमासः | शुक्लपक्षः | शिशिरऋतुः |
स्वागतम्! वयं केचन छात्राः मिलित्वा अस्याः वार्तापत्रिकायाः आरम्भं कृतवन्तः| भवद्भ्यः सर्वेभ्यः अस्माकं पठनानुभवं प्रदर्शयितुकामाः स्मः वयम्। अस्यां वार्तापत्रिकायां छात्रैः लिखिताः केचन लेखाः कथाः च सन्ति। संभाषणेन पुस्तकपठनेन च सह लेखनकौशलं भवतु इति आशा । भवत्सु बहवः लेखान् प्रदाय अस्मिन् प्रयासे भागं स्वीकुर्वन्तु इति अस्माकं प्रार्थना ।
