Thursday, July 16, 2026
My Account
No Result
View All Result
Samskrita Bharati USA
संस्कृतभारती।Samskrita Bharati
  • मुख्यपुट: Home
  • अध्ययनमार्गाः Learn
    • बालाः Children KG-7th
    • तरुणाः/किशोराः SAFL (Children 8th-12th)
    • युवकाः Youth/College Students
    • प्रौढाः Adults
      • अभिमुखवर्गाः In-Person
      • सम्भाषणतः शास्त्रपर्यन्तम् s2s Certificate Course
      • प्रगतवर्गाः Advanced Classes
    • सनयस्वाध्यायः Guided Self Study
      • बालाः – भूमिका Children – Foundational
      • बालाः – प्रवेशः Children – Pravesha
      • प्रौढाः – भूमिका Adult – Foundational
      • प्रौढाः – प्रवेशादिवर्गाः Adult – Pravesha etc.
    • गुणवत्तापरिशीलनम् General Placement
      • पल्लवम् Pallavam Track
      • प्रवेशः Pravesha Track
      • भाषा-प्रवेशः Bhasha-Pravesha Track
  • सहभाग: Participate
    • केन्द्राणि Centers
    • शिबिराणि Camps
    • कार्यशालाः Workshops
    • स्पर्धाः Competitions
  • योगदानम् Contribute
    • समाजनिधि-समर्पणम् Samājanidhi
    • सेवनम् Volunteer
    • परियोजनाः/संरक्षकाः Projects/Sponsors
  • लेखनसङ्ग्रहाः Publications
    • विचारलेखाः Blogs
    • छात्रवाणी ChAtravANI
    • सम्भाषणसन्देश: Sandesha
    • SAFL वार्तापत्रिकाः SAFL Newsletters
  • संस्कृतभारती About Us
    • लक्ष्यवचनम् Our Mission & Vision
    • पाठनपद्धति: Teaching method
    • सम्पर्क: Contact Us
    • नगदं समर्पयतु Submit Cash from Book Sales
    • कक्षाशुल्कं समर्पयतु Submit Class Fees
Samskrita Bharati USA
  • मुख्यपुट: Home
  • अध्ययनमार्गाः Learn
    • बालाः Children KG-7th
    • तरुणाः/किशोराः SAFL (Children 8th-12th)
    • युवकाः Youth/College Students
    • प्रौढाः Adults
      • अभिमुखवर्गाः In-Person
      • सम्भाषणतः शास्त्रपर्यन्तम् s2s Certificate Course
      • प्रगतवर्गाः Advanced Classes
    • सनयस्वाध्यायः Guided Self Study
      • बालाः – भूमिका Children – Foundational
      • बालाः – प्रवेशः Children – Pravesha
      • प्रौढाः – भूमिका Adult – Foundational
      • प्रौढाः – प्रवेशादिवर्गाः Adult – Pravesha etc.
    • गुणवत्तापरिशीलनम् General Placement
      • पल्लवम् Pallavam Track
      • प्रवेशः Pravesha Track
      • भाषा-प्रवेशः Bhasha-Pravesha Track
  • सहभाग: Participate
    • केन्द्राणि Centers
    • शिबिराणि Camps
    • कार्यशालाः Workshops
    • स्पर्धाः Competitions
  • योगदानम् Contribute
    • समाजनिधि-समर्पणम् Samājanidhi
    • सेवनम् Volunteer
    • परियोजनाः/संरक्षकाः Projects/Sponsors
  • लेखनसङ्ग्रहाः Publications
    • विचारलेखाः Blogs
    • छात्रवाणी ChAtravANI
    • सम्भाषणसन्देश: Sandesha
    • SAFL वार्तापत्रिकाः SAFL Newsletters
  • संस्कृतभारती About Us
    • लक्ष्यवचनम् Our Mission & Vision
    • पाठनपद्धति: Teaching method
    • सम्पर्क: Contact Us
    • नगदं समर्पयतु Submit Cash from Book Sales
    • कक्षाशुल्कं समर्पयतु Submit Class Fees
Samskrita Bharati USA
No Result
View All Result

पाठेषु वाक्यानि जीवन्ति – Sentences are alive with meaning

शब्दानां चित्रातीतं सौन्दर्यम्

chatravani by chatravani
July 15, 2026
in Chatravani
A A
Share on FacebookShare on TwitterShare on Linkedin

चित्रणं कञ्चन विषयं सहस्रेण पदैः वर्णितम् अपि स्पष्टतरं प्रकटयति इति काचित् प्रसिद्धा उक्तिः ।  कदाचित् कानिचन वाक्यानि चित्रैः अवर्णनीयानि भवेयुः । तदवसरे तस्य वाक्यस्य अवगमनाय शिष्यः स्वकल्पनाम् आश्रयेत् ।  अध्यापकः वा।  तादृशानि कानिचन वाक्यानि पश्याम किम्।

How do we explain a sentence whose meaning may not be illustrable by a drawing.

कृपणाः फलम् अजिघ्रन् । (प्र.४.१.१०)  – एतद् वाक्यं कृपणानां कञ्चन स्वभावं प्रकटयति ।  एतस्य वाक्यस्य पाठनसमये श्रुतपूर्वं किञ्चन कथनं पुनः पुनः मनसि स्फुरति ।  तद् एवं भवति ।  कश्चन बालकः विद्यालयं गच्छति ।  प्रतिवारं लोकयानाय पञ्चत्रिंशत् नाणकानि देयानि ।  कस्मिंश्चित् दिने विद्यालयात् प्रत्यागतः पुत्रः पितरं प्रीणयितुकामः सोत्साहं वदति ।  भोः पितः।  प्रणमामि ।  अद्य अहं पञ्चत्रिंशन्नाणकानि व्ययात् रक्षितवान् ।  कथम् इति पृष्टे सति लोकयानस्य पृष्ठतः धावन् गृहम् आगतोऽस्मि ।  अत एव इति ।

Misers smell the fruits. The illustration is provided by an anecdote. A boy goes to school, and busfare is 35 paise. One day, he comes home and proudly tells his father I saved the busfare today by running behind the bus.  

आलिङ्गनं प्रतीक्षमाणः बालकः तत्स्थाने सम्यक् ताडनं प्राप्नोति ।  पिता ताडयन् वदति ।  रे मूर्ख!  लोकयानस्य स्थाने यदि भाटकयानस्य पृष्ठतः धावन् आगमिष्यत् तर्हि शतगुणितं पञ्चत्रिंशत् रूप्यकाणि रक्षितानि अभविष्यन् खलु । इति ।  एतेन कृपणानां स्वभावः स्पष्टतया वर्णितः अस्मान् साक्षात् सुगन्धयुक्तं कञ्चन फलानाम् आपणं नयेत् ।  मनसि च फलं जिघ्रन्तं कञ्चन कृपणं पश्येम । 

Expecting appreciation, the boy instead gets a whacking!!  Father’s reasoning is that the boy should have run behind cab, which would have increased the savings a hunderd-fold!  This sentence helps call out a particular characteristic of the sentences, elevating it from the mundane.

पलायमानं मित्रं शीघ्रं धावति । (शि.७.१.८) – मित्रं किमर्थं पलायेत।  तदपि शीघ्रं धावत् ।  हरिणः पलायेत ।  भीरुः पलायेत ।  बालकाः अपि पलायेरन् ।  मित्रम्?  कल्पनाशक्त्या चोदिता वर्णनम् एवं करोमि ।  किञ्चन मित्रं भारतं गच्छति ।  प्रत्यागमनसमये कथकस्य मात्रे किमपि ततः आनेष्यामि इति प्रतिज्ञां दत्त्वा अगच्छत् ।  इदानीं प्रत्यागतं मित्रं तत् वस्तु न आनयत् ।  अतः मातरं दृष्ट्वा ततः वेगेन पलायते ।  भवन्तः समाधानं कथं कुर्युः ।

How would you explain a sentence that reports a friend fleeing by runnig fast.

सकलस्य प्रपञ्चस्य सृष्टिकर्ता परमात्मा । (परि.२.१.१३) – अन्तरिक्षे वर्तमानस्य परमात्मनः अंशः ब्रह्मा हस्ते कमण्डलुं गृह्णन् आकाशे मन्दं प्लवमानः ध्याने नक्षत्रग्रहताराणां मध्ये उपविष्टः नित्यं जगत् जगतः अंशान् च सृजन् दृश्यते ।

God is the creator of the entire universe.

कीटः सस्यं बाधते । (प्र.३.१.८) बाध्-धातुः आत्मनेपदी एव इति स्मारयितुं कालिदासेन सम्बद्धं कञ्चन प्रसङ्गम् एवं वर्णयामि ।  भोजराजस्य सभायां कवीनां सम्माननं सगौरवं क्रियते स्म ।  बाह्यः कविः कश्चन सम्माननं प्राप्तुम् इच्छन् धारानगरम् आगच्छति ।  वार्तां श्रुत्चा राजा भोजः स्वागतीकरणगोष्ठीं नगरद्वारपर्यन्तं प्रेषयति ।  एतद् आकर्ण्य कालिदासः भारवाहवेषं धरन् तां गोष्ठीं प्रविशति ।  आगन्तुकं कविं शिबिकायां संस्थाप्य प्रासादं प्रति सर्वे रागतालवाद्यसहितं गच्छन्ति ।  मध्ये कदाचित् सः बाह्यकविः शिबिकायाः बहिः शिरः धरन् भारवाहवेषं धृतवन्तं कालिदासं पृच्छति भारः बाधति वा इति ।  एतत् श्रुत्वा सः वेषधारी कालिदासः वदति भारः न बाधते ।  बाधति बाधते इति ।  एतत् श्रुत्वा स्वदोषम् अवगत्य लज्जितः बाह्यकविः कारणम् अनुक्त्वा ततः पलायते ।

The insect infects the plant. The word for infect has some grammatical nuances in Samskritam which is famously illustrated by a Kalidasa anecdote.

चित्रयुक्तपुस्तकानां पठनेन अन्येषां कल्पनां वयं वीक्षामहे ।  दूरस्थशिक्षणस्य अचित्रितपुस्तकानां पठने पाठने च मनोरथस्य गतिः मनोरञ्जनं जनयति ।   चोदितानां छात्राणाम् अनुभवः अपि तथा स्यात् इति अहं भावयामि।

The author finds immense joy in the reading and teaching of sentences featured in the course matereial for Distance Learning Program, whose lack of illustrations is frequently remarked upon.

– पद्मावतीरामनाथपुत्री विद्या

(Article available from our archives – https://chatravani.samskritabharatiusa.org/archives/2023 )

 


छात्रवाणी संस्कृतभारतीछात्राणां वार्तापत्रिका | माघमासः | शुक्लपक्षः | शिशिरऋतुः |

स्वागतम्! वयं केचन छात्राः मिलित्वा अस्याः वार्तापत्रिकायाः आरम्भं कृतवन्तः| भवद्भ्यः सर्वेभ्यः अस्माकं पठनानुभवं प्रदर्शयितुकामाः स्मः वयम्।  अस्यां वार्तापत्रिकायां छात्रैः लिखिताः केचन लेखाः कथाः च सन्ति।  संभाषणेन पुस्तकपठनेन च सह लेखनकौशलं भवतु इति आशा ।  भवत्सु बहवः लेखान् प्रदाय अस्मिन् प्रयासे भागं स्वीकुर्वन्तु इति अस्माकं प्रार्थना ।

Tags: HumorUsage
ShareTweetShare
Previous Post

Nurturing Young Minds: A Look Back at Samskrita Bharati’s SAFL Youth Camps

Next Post

Taking Samskritam as a Foreign Language

विचारलेखाः

  • Latest Blogs
  • SAFL Blogs
  • Programs Blog
  • ChAtravANI Blogs
  • Blog Archives

ग्रन्थापण: |  Bookstore

pAtratA book cover and other book covers in the background

Connect with us

Samskrita Bharati continues to advance its core mission of promoting Samskritam learning and teaching in North America. We have come this far with your unstinted support, financial contributions and your steadfast faith in Samskrita Bharati’s mission.

Top Links

  • Home
  • Classes
  • Locations
  • Camps
  • Workshops
  • Sandesha Magazine
  • Chatravani Magazine
  • Blogs

More Links

  • Donate (samAjanidhi)
  • For kAryakartA

Legal & Support

  • Privacy Policy
  • Terms & Conditions
  • Sitemap

Let's Connect

Samskrita Bharati is a 501(c)(3) non-profit organization in the USA. Your contribution is tax-deductible as allowed by law. Our tax ID/EIN is 77-0545072

  • Contact Us
  • Mission & Vision
  • Worldwide Sites
Facebook Instagram X-twitter Youtube

Copyright © 2026 Samskrita Bharati USA | All Rights Reserved

No Result
View All Result
  • मुख्यपुट: Home
  • अध्ययनमार्गाः Learn
    • बालाः Children KG-7th
    • तरुणाः/किशोराः SAFL (Children 8th-12th)
    • युवकाः Youth/College Students
    • प्रौढाः Adults
      • अभिमुखवर्गाः In-Person
      • सम्भाषणतः शास्त्रपर्यन्तम् s2s Certificate Course
      • प्रगतवर्गाः Advanced Classes
    • सनयस्वाध्यायः Guided Self Study
      • बालाः – भूमिका Children – Foundational
      • बालाः – प्रवेशः Children – Pravesha
      • प्रौढाः – भूमिका Adult – Foundational
      • प्रौढाः – प्रवेशादिवर्गाः Adult – Pravesha etc.
    • गुणवत्तापरिशीलनम् General Placement
      • पल्लवम् Pallavam Track
      • प्रवेशः Pravesha Track
      • भाषा-प्रवेशः Bhasha-Pravesha Track
  • सहभाग: Participate
    • केन्द्राणि Centers
    • शिबिराणि Camps
    • कार्यशालाः Workshops
    • स्पर्धाः Competitions
  • योगदानम् Contribute
    • समाजनिधि-समर्पणम् Samājanidhi
    • सेवनम् Volunteer
    • परियोजनाः/संरक्षकाः Projects/Sponsors
  • लेखनसङ्ग्रहाः Publications
    • विचारलेखाः Blogs
    • छात्रवाणी ChAtravANI
    • सम्भाषणसन्देश: Sandesha
    • SAFL वार्तापत्रिकाः SAFL Newsletters
  • संस्कृतभारती About Us
    • लक्ष्यवचनम् Our Mission & Vision
    • पाठनपद्धति: Teaching method
    • सम्पर्क: Contact Us
    • नगदं समर्पयतु Submit Cash from Book Sales
    • कक्षाशुल्कं समर्पयतु Submit Class Fees

Copyright © 2025 Samskrita Bharati USA | All Rights Reserved