Distance Learning Program (DLP) - दूरस्थशिक्षणम् |
DLP Advanced Classes and Lectures
Namaste!
We are happy to announce classes and lectures in various shastras that experts will teach through the medium of Samskritam. These may or may not be part of other formal programs that we may offer. For any questions, please get in touch with This email address is being protected from spambots. You need JavaScript enabled to view it..
Upcoming or Active Classes/Lectures
समासपरिचयवर्गःवर्गस्य अवधिः - June 25 तः - September 3 पर्यन्तम् (बुधवासरेषु) No Class July 16th वर्गसमयः - सायं 9:00तः 10:00पर्यन्तम् (पूर्वतटीयसमयानुसारम्) अयि भोः संस्कृतशास्त्रसेविनः ! गद्यपद्यात्मके सुविशाले संस्कृतवाङ्मयाब्धौ प्राप्यमाणैः ज्ञानामृतकणैः स्वजीवनं सार्थकीकर्तुकामेभ्यः भवद्भ्यः भवतीभ्यश्च संस्कृतभारतीयं समासपरिचयात्मकं नूतनवर्गम् आरब्धुं समुत्सुकास्ति| यत्र तत्रभवन्तः भवत्यश्च सामान्यतया सर्वविधसमासानां सोदाहरणं परिचयं प्राप्य समासप्रक्रियामपि ज्ञातुं शक्ष्यन्ति|
|
व्याकरणपरिचयवर्गःवर्गस्य अवधिः - June 23 तः - August 25 पर्यन्तम् (सोमवासरेषु) वर्गसमयः - सायं 9:00तः 10:00 पर्यन्तम् (पूर्वतटीयसमयानुसारम्) अयि भोः संस्कृतरसिकाः ! काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् इति प्रसिद्धाभाणकानुसारं संस्कृतवाङ्मयाब्धौ प्रवेष्टुं व्याकरणशास्त्रं प्रथमसोपानत्वेन अङ्गीकरणीयं भवति इति अवगच्छन्तः वयं तत्रभवतां संस्कृतपिपठिषूणां सहायतायै शास्त्रीयदृष्ट्या व्याकरणवर्गान् सततं सञ्चालयितुं दत्तचित्ताः स्मः, परन्तु व्याकरणविषयाणाम् अधिगमनात् प्राग् - व्याकरणं नाम किम्? किमस्ति पाणिनीयव्याकरणस्य महत्त्वम् ऐतिह्यञ्च? के के सन्ति तदन्तर्गताः विषयाः? तान् अध्येतुं सहायकसामग्र्यश्च काः ? इत्यादिविषयान् आदाय “ व्याकरणपरिचयः” इति नाम्ना कश्चन वर्गः यथाशीघ्रमेव आयोज्यमानः अस्ति| |
अतः यथासमयं वर्गम् आगत्य समासविषयकज्ञानेन लाभान्विताः भवन्तु तत्रभवन्तो भवत्यः इति निवेदयति भवतामियं संस्कृतभारती | समासवर्गाय सामान्यतः सन्धिज्ञानं च।
वर्गसञ्चालिका - Dr. लक्ष्मीः शर्मा
भवती देहल्यां श्रीलालबहादुर-शास्त्री-राष्ट्रिय-संस्कृत-विद्यापीठाद् व्याकरणविषये “विद्यावारिधि-उपाधिम्” प्राप्य कतिपयवर्षाणि तत्रैव पाठितवती| अधुना च अत्र अमेरिकादेशे मिशिगनराज्ये निवसति|
Medium of instruction is Samskritam
शुल्कम् (fee): $30.00
अर्हता - संस्कृतसम्भाषणावगमनं संस्कृतव्याकरणेन सामान्यपरिचयश्च। समासवर्गाय सामान्यतः सन्धिज्ञानं च।